
Pujya Swamiji’s Message of Blessing:
२. प्राणानायम्य
मम उपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सर्वेषां आस्तिकमहाजनानां समस्त देवता प्रसादेन वेदोक्त पूर्णायु: अभिवृद्ध्यर्थं , अस्मिन्देशे, क्षाम, क्षोभ, निवृत्तिद्वारा, वापी, कूप तटाकदिषु जलपरिपूर्णता सिद्ध्यर्थं, अपौरुषेय वेदवचसां यथानियमं अभिवृद्ध्यर्थं अमात्यवर्गाणां स्वधर्मपरिपालने प्रवृत्ति सिद्ध्यर्थं, मध्ये परस्परं वैमनस्य निवृत्तिद्वारा सौमनस्यसिद्ध्यर्थ भारतदेशस्य सीमासु देशसरंक्षणार्थं अहोरात्रे जागरुकतया, देशसरंक्षणं, कुर्वतां भाटानां, कायिक, मानसिक, धैर्य सिद्ध्यर्थं, आपन्निवृत्ति पूर्वक बाह्याभ्यंतर शत्रु निबर्हणद्वारा विजयप्राप्त्यर्थं, देशेस्थितानां अन्योन्येन ऐक्यमत्येन सुस्रेहेन सौहार्देन च सुखजीवित्व लब्ध्यर्थं, धेनूनां क्षीर समृद्ध्यर्थं , समस्त लोक कल्याणार्थं, श्रीललितादेवी प्रसादेन मम दीर्घसौमंगल्यता सिद्ध्यर्थं अन्योन्य साहाय्येन यथाशक्ति ललितासहस्रनाम पारायणं करिष्ये।
At the end of this sankalpa you can add any specific desire/sankalpa of your own (in English or Hindi); For example, “for getting a job for my son, or for improving the health of somebody etc, I undertake this Japa.”









